Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री राघवेन्द्र मङ्गलाष्टकम्

Sri Raghavendra Mangalashtakam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri raghavendra mangalashtakam in devanagari

श्रीमद्रामपादारविन्दमधुपः श्रीमध्ववंशाधिपः
सच्चिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः ।
अत्यर्थं मनसा कृताच्युतजपः पापान्धकारातपः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 1 ॥

कर्मन्दीन्द्रसुधीन्द्रसद्गुरुकराम्भोजोद्भवः सन्ततं
प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः ।
सच्छास्त्रादि विदूषकाखिलमृषावादीभकण्ठीरवः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 2 ॥

सालङ्कारककाव्यनाटककलाकाणादपातञ्जल-
त्रय्यर्थस्मृतिजैमिनीयकवितासङ्कीतपारङ्गतः ।
विप्रक्षत्रविडङ्घ्रिजातमुखरानेकप्रजासेवितः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 3 ॥

रङ्गोत्तुङ्गतरङ्गमङ्गलकर श्रीतुङ्गभद्रातट-
प्रत्यक्स्थद्विजपुङ्गवालय लसन्मन्त्रालयाख्ये पुरे ।
नव्येन्द्रोपलनीलभव्यकरसद्वृन्दावनान्तर्गतः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 4 ॥

विद्वद्राजशिरःकिरीटखचितानर्घ्योरुरत्नप्रभा
रागाघौघहपादुकाद्वयचरः पद्माक्षमालाधरः ।
भास्वद्दण्टकमण्डलूज्ज्वलकरो रक्ताम्बराडम्बरः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 5 ॥

यद्वृन्दावनसत्प्रदक्षिणनमस्काराभिषेकस्तुति-
ध्यानाराधनमृद्विलेपनमुखानेकोपचारान् सदा ।
कारं कारमभिप्रयान्ति चतुरो लोकाः पुमर्थान् सदा
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 6 ॥

वेदव्यासमुनीशमध्वयतिराट् टीकार्यवाक्यामृतं
ज्ञात्वाऽद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये ।
सङ्ख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यन्मुदा
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 7 ॥

श्रीमद्वैष्णवलोकजालकगुरुः श्रीमत्परिव्राड्गुरुः
शास्त्रे देवगुरुः श्रितामरतरुः प्रत्यूहगोत्रस्वरुः ।
चेतोऽतीतशिरुस्तथा जितवरुस्सत्सौख्यसम्पत्करुः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 8 ॥

यस्सन्ध्यास्वनिशं गुरोर्यतिपतेः सन्मङ्गलस्याष्टकं
सद्यः पापहरं स्वसेवि विदुषां भक्त्यैतदाभाषितम् ।
भक्त्या वक्ति सुसम्पदं शुभपदं दीर्घायुरारोग्यकं
कीर्तिं पुत्रकलत्रबान्धवसुहृन्मूर्तिः प्रयाति ध्रुवम् ॥

इति श्रीमदप्पणाचार्यकृतं राघवेन्द्रमङ्गलाष्टकं सम्पूर्णम् ।

sri raghavendra mangalashtakam in devanagari

Copy
Give Feedback