Sri Peethopanishat Bagalamukhi in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
ओं अथारिमोचिनीं पीतां प्रणमामि यां ब्रह्मपत्नीं ब्रह्माणीं पीतां भास्वत्तनुमिवाराध्यमानो निपतति तिरः यद्द्वेष्टि कुलं पुरुषं परितापयति सन्नक्षयमानो निपतति ।
यः पीतामनुस्मरति स सर्वज्ञतामेति अथ ह मणिबन्धे पुरुषचतुष्टयज्ञानवर्तिनीं शरणमहं प्रपद्ये ।
यन्नितान्तमाविष्करोति विद्धिषः सेयं पीतावयवैः पूज्या यो यं कालात्मको बोधः संसारमनुमर्दयति शत्रुः स लुप्यते यच्चिन्तनीया तच्चिन्तयामि यच्चिन्तयामि तद्भावयामि तारं मायां तदनु बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय कीलयेति पदं तारं मायां वह्निवल्लभान्तं जपन्नरीन् प्रोच्चाटयति प्रोत्सादयति इत्थं वेदेष्वागमेषु प्रसिद्धमूर्तिं बगलां श्रद्धामि यः श्रावयसि सुनृतया गिरा तद्द्वेष्ट्र उच्चाटनयैव कल्पेरन् ।
एषा तामसी शक्तिस्तामसी शक्तिः राजसी शक्तिः राजसी शक्तिरित्याह भगवान् कालाग्निरुद्रः ॥
इति पीतोपनिषत् ॥
Leave a Comment