Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री नीलसरस्वती स्तोत्रम्

Sri Neela Saraswati Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

घोररूपे महारावे सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥

सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २ ॥

जटाजूटसमायुक्ते लोलजिह्वान्तकारिणी ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३ ॥

सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते ।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४ ॥

जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५ ॥

ह्रूं ह्रूङ्करमये देवि बलिहोमप्रिये नमः ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥ ६ ॥

बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ॥ ७ ॥

इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि ।
तारे तारधिनाथास्ये त्राहि मां शरणागतम् ॥ ८ ॥

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ ९ ॥

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् ॥ १० ॥

इदं स्तोत्रम् पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ॥ ११ ॥

पीडायां वापि सङ्ग्रामे जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रम् शुभं तस्य न संशयः ॥ १२ ॥

इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥

इति श्री नीलसरस्वती स्तोत्रम् ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

Copy
Give Feedback