Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री मातङ्गी अष्टोत्तर शत नामावलिः

Sri Matangi Ashtottara Sata Namavali in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri matangi ashtottara sata namavali in devanagari

ॐ महामत्तमातङ्गिनीसिद्धिरूपायै नमः ।
ॐ योगिन्यै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ रमायै नमः ।
ॐ भवान्यै नमः ।
ॐ भवप्रीतिदायै नमः ।
ॐ भूतियुक्तायै नमः ।
ॐ भवाराधितायै नमः ।
ॐ भूतिसम्पत्कर्यै नमः ।
ॐ धनाधीशमात्रे नमः । 10 ।

ॐ धनागारदृष्ट्यै नमः ।
ॐ धनेशार्चितायै नमः ।
ॐ धीरवापीवराङ्ग्यै नमः ।
ॐ प्रकृष्ट प्रभारूपिण्यै नमः ।
ॐ कामरूप प्रहृष्टायै नमः ।
ॐ महाकीर्तिदायै नमः ।
ॐ कर्णनाल्यै नमः ।
ॐ करालीभगाघोररूपायै नमः ।
ॐ भगाङ्ग्यै नमः ।
ॐ भगाह्वायै नमः । 20 ।

ॐ भगप्रीतिदायै नमः ।
ॐ भीमरूपायै नमः ।
ॐ भवान्यै नमः ।
ॐ महाकौशिक्यै नमः ।
ॐ कोशपूर्णायै नमः ।
ॐ किशोरी किशोरप्रियानन्दीहायै नमः ।
ॐ महाकारणाकारणायै नमः ।
ॐ कर्मशीलायै नमः ।
ॐ कपालि प्रसिद्धायै नमः ।
ॐ महासिद्धखण्डायै नमः । 30 ।

ॐ मकारप्रियायै नमः ।
ॐ मानरूपायै नमः ।
ॐ महेश्यै नमः ।
ॐ महोल्लासिनी लास्यलीला लयाङ्ग्यै नमः ।
ॐ क्षमा क्षेमशीलायै नमः ।
ॐ क्षपाकारिण्यै नमः ।
ॐ अक्षयप्रीतिदायै नमः ।
ॐ भूतियुक्ता भवान्यै नमः ।
ॐ भवाराधितायै नमः ।
ॐ भूतिसत्यात्मिकायै नमः । 40 ।

ॐ प्रभोद्भासितायै नमः ।
ॐ भानुभास्वत्करायै नमः ।
ॐ धराधीशमात्रे नमः ।
ॐ धरागारदृष्ट्यै नमः ।
ॐ धरेशार्चितायै नमः ।
ॐ धीवराधीवराङ्ग्यै नमः ।
ॐ प्रकृष्टप्रभारूपिण्यै नमः ।
ॐ प्राणरूप प्रकृष्टस्वरूपायै नमः ।
ॐ स्वरूपप्रियाय नमः ।
ॐ चलत्कुण्डलायै नमः । 50 ।

ॐ कामिनीकान्तयुक्तायै नमः ।
ॐ कपालाचलायै नमः ।
ॐ कालकोद्धारिण्यै नमः ।
ॐ कदम्बप्रियायै नमः ।
ॐ कोटरी कोटदेहायै नमः ।
ॐ क्रमायै नमः ।
ॐ कीर्तिदायै नमः ।
ॐ कर्णरूपायै नमः ।
ॐ काक्ष्म्यै नमः ।
ॐ क्षमाङ्ग्यै नमः । 60 ।

ॐ क्षयप्रेमरूपायै नमः ।
ॐ क्षपायै नमः ।
ॐ क्षयाक्षायै नमः ।
ॐ क्षयाह्वायै नमः ।
ॐ क्षयप्रान्तरायै नमः ।
ॐ क्षवत्कामिन्यै नमः ।
ॐ क्षारिणी क्षीरपूर्णायै नमः ।
ॐ शिवाङ्ग्यै नमः ।
ॐ शाकम्भरी शाकदेहायै नमः ।
ॐ महाशाकयज्ञायै नमः । 70 ।

ॐ फलप्राशकायै नमः ।
ॐ शकाह्वायै नमः ।
ॐ अशकाह्वायै नमः ।
ॐ शकाख्यायै नमः ।
ॐ शकायै नमः ।
ॐ शकाक्षान्तरोषायै नमः ।
ॐ सुरोषायै नमः ।
ॐ सुरेखायै नमः ।
ॐ महाशेषयज्ञोपवीतप्रियायै नमः ।
ॐ जयन्त्यै नमः । 80 ।

ॐ जयायै नमः ।
ॐ जाग्रती योग्यरूपायै नमः ।
ॐ जयाङ्ग्यै नमः ।
ॐ जपध्यानसन्तुष्टसञ्ज्ञायै नमः ।
ॐ जयप्राणरूपायै नमः ।
ॐ जयस्वर्णदेहायै नमः ।
ॐ जयज्वालिनीयामिन्यै नमः ।
ॐ याम्यरूपायै नमः ।
ॐ जगन्मातृरूपायै नमः ।
ॐ जगद्रक्षणायै नमः । 90 ।

ॐ स्वधावौषडन्तायै नमः ।
ॐ विलम्बाविलम्बायै नमः ।
ॐ षडङ्गायै नमः ।
ॐ महालम्बरूपासिहस्तायै नमः ।
ॐ पदाहारिणीहारिण्यै नमः ।
ॐ हारिण्यै नमः ।
ॐ महामङ्गलायै नमः ।
ॐ मङ्गलप्रेमकीर्तये नमः ।
ॐ निशुम्भच्छिदायै नमः ।
ॐ शुम्भदर्पापहायै नमः । 100 ।

ॐ आनन्दबीजादिमुक्तिस्वरूपायै नमः ।
ॐ चण्डमुण्डापदा मुख्यचण्डायै नमः ।
ॐ प्रचण्डाप्रचण्डायै नमः ।
ॐ महाचण्डवेगायै नमः ।
ॐ चलच्चामरायै नमः ।
ॐ चामराचन्द्रकीर्तये नमः ।
ॐ सुचामीकरा चित्रभूषोज्ज्वलाङ्ग्यै नमः ।
ॐ सुसङ्गीतगीतायै नमः । 108 ।

sri matangi ashtottara sata namavali in devanagari

Copy
Give Feedback