Sri Lakshmi Nrusimha Ashtottara Sata Naama Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri lakshmi nrusimha ashtottara sata naama stotram in devanagari
नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवस्स्तम्भजश्चोग्रलोचनः ॥ 1 ॥
रौद्रस्सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥ 2 ॥
पञ्चाननः परब्रह्म चाऽघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ 3 ॥
निटिलाक्षस्सहस्राक्षो दुर्निरीक्षः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥ 4 ॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥ 5 ॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिंशुमारस्त्रिलोकात्मा ईशस्सर्वेश्वरो विभुः ॥ 6 ॥
भैरवाडम्बरो दिव्यश्चाऽच्युतः कवि माधवः ।
अधोक्षजोऽक्षरश्शर्वो वनमाली वरप्रदः ॥ 7 ॥
विश्वम्भरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः ।
अनघास्त्रो नखास्त्रश्च सूर्यज्योतिस्सुरेश्वरः ॥ 8 ॥
सहस्रबाहुःस्सर्वज्ञस्सर्वसिद्धिप्रदायकः ।
वज्रदंष्ट्रो वज्रनखो महानन्दः परन्तपः ॥ 9 ॥
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तस्सुव्यक्तो भक्तवत्सलः ॥ 10 ॥
वैशाखशुक्लभूतोत्थः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥ 11 ॥
वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥ 12 ॥
जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परञ्ज्योतिर्निर्गुणश्च नृकेसरी ॥ 13 ॥
परतत्त्वः परन्धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहस्सर्वात्मा धीरः प्रह्लादपालकः ॥ 14 ॥
इदं श्रीमन्नृसिंहस्य नाम्नामष्टोत्तरं शतम् ।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥ 15 ॥
इति श्रीनृसिंहपूजाकल्पे श्री लक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् ।
sri lakshmi nrusimha ashtottara sata naama stotram in devanagari
Leave a Comment