Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री कालिका कवचम् (वैरिनाशकरम्)

Sri Kalika Kavacham Vairinashakam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

कैलासशिखरासीनं शङ्करं वरदं शिवम् ।
देवी पप्रच्छ सर्वज्ञं देवदेवं महेश्वरम् ॥ १ ॥

देव्युवाच ।
भगवन् देवदेवेश देवानां मोक्षद प्रभो ।
प्रब्रूहि मे महाभाग गोप्यं यद्यपि च प्रभो ॥ २ ॥

शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् ।
परमैश्वर्यमतुलं लभेद्येन हि तद्वद ॥ ३ ॥

भैरव उवाच ।
वक्ष्यामि ते महादेवि सर्वधर्महिताय च ।
अद्भुतं कवचं देव्याः सर्वरक्षाकरं नृणाम् ॥ ४ ॥

सर्वारिष्टप्रशमनं सर्वोपद्रवनाशनम् ।
सुखदं भोगदं चैव वश्याकर्षणमद्भुतम् ॥ ५ ॥

शत्रूणां सङ्क्षयकरं सर्वव्याधिनिवारणम् ।
दुःखिनो ज्वरिणश्चैव स्वाभीष्टप्रहतास्तथा ।
भोगमोक्षप्रदं चैव कालिकाकवचं पठेत् ॥ ६ ॥

अस्य श्रीकालिकाकवचस्य भैरव ऋषिः अनुष्टुप् छन्दः श्रीकालिका देवता मम शत्रुसंहारार्थं जपे विनियोगः ।

करन्यासः –
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्यां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठिकाभ्यां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।

ध्यानम् ।
ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ ७ ॥

नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
नरमुण्डं तथा खड्गं कमलं च वरं तथा ॥ ८ ॥

बिभ्राणां रक्तवसनां दंष्ट्रया घोररूपिणीम् ।
अट्‍टाट्‍टहासनिरतां सर्वदा च दिगम्बराम् ॥ ९ ॥

शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवीं ततस्तु कवचं पठेत् ॥ १० ॥

अथ कवचम् ।
ओम् । कालिका घोररूपाद्या सर्वकामप्रदा शुभा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ११ ॥

ह्रीं ह्रीं स्वरूपिणीं चैव ह्रीं ह्रीं हूं रूपिणीं तथा ।
ह्रीं ह्रीं क्षें क्षें स्वरूपा सा सदा शत्रून् विदारयेत् ॥ १२ ॥

श्रीं ह्रीं ऐं रूपिणी देवी भवबन्धविमोचिनी ।
हूं रूपिणी महाकाली रक्षास्मान् देवि सर्वदा ॥ १३ ॥

यथा शुम्भो हतो दैत्यो निशुम्भश्च महासुरः ।
वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् ॥ १४ ॥

ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका ।
कौमार्यैन्द्री च चामुण्डा खादयन्तु मम द्विषः ॥ १५ ॥

सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी ।
मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा ॥ १६ ॥

ह्रां ह्रीं कालिके घोरदंष्ट्रे रुधिरप्रिये रुधिरपूर्णवक्त्रे रुधिरावृत्तितस्तनि मम शत्रून् खादय खादय हिंस हिंस मारय मारय भिन्धि भिन्धि छिन्धि छिन्धि उच्चाटय उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा । ओं जय जय किरि किरि मर्दय मर्दय मोहय मोहय हर हर मम रिपून् ध्वंसय ध्वंसय भक्षय भक्षय त्रोटय त्रोटय यातुदानानि चामुण्डी सर्वजनान् राज्ञो राजपुरुषान् स्त्रियो वशान् कुरु कुरु तनु तनु धान्यं धनमश्वाश्च गजांश्च रत्नानि दिव्यकामिनीः पुत्रान् राज्यं प्रियं देहि देहि यच्छय यच्छय क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा ॥ १७ ॥

इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा ।
ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः ॥ १८ ॥

प्रलयः सर्वव्याधीनां भवतीह न संशयः ।
धनहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा ॥ १९ ॥

सहस्रपठनात् सिद्धिः कवचस्य भवेत्तदा ।
ततः कार्याणि सिद्ध्यन्ति यथा शङ्करभाषितम् ॥ २० ॥

श्मशानाङ्गारमादाय चूर्णीकृत्य प्रयत्नतः ।
पादोदकेन स्पृष्ट्वा च लिखेल्लोहशलाकया ॥ २१ ॥

भूमौ शत्रून् हीनरूपान् उत्तराशिरसस्तथा ।
हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत् ॥ २२ ॥

शत्रोः प्राणप्रतिष्ठां तु कुर्यान्मन्त्रेण मन्त्रवित् ।
हन्यादस्त्रप्रहारेण शत्रुर्गच्छेद्यमालयम् ॥ २३ ॥

ज्वलदङ्गारतापेन भवन्ति ज्वरिणोऽरयः ।
प्रोक्षणैर्वामपादेन दरिद्रो भवति ध्रुवम् ॥ २४ ॥

वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् ।
परमैश्वर्यदं चैव पुत्रपौत्रादिवृद्धिदम् ॥ २५ ॥

प्रभातसमये चैव पूजाकाले च यत्नतः ।
सायङ्काले तथा पाठात् सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २६ ॥

शत्रुरुच्चाटनं याति देशाच्च विच्युतो भवेत् ।
पश्चात्किङ्करमाप्नोति सत्यं सत्यं न संशयः ॥ २७ ॥

शत्रुनाशकरं देवि सर्वसम्पत्प्रदे शुभे ।
सर्वदेवस्तुते देवि कालिके त्वां नमाम्यहम् ॥ २८ ॥

इति श्रीरुद्रयामले कालिकाकल्पे वैरिनाशकरं नाम श्री कालिका कवचम् ।

Copy
Give Feedback