Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री धूमावती स्तोत्रम्

Sri Dhumavathi Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

प्रातर्या स्य़ात्कुमारी कुसुमकलिकया जापमालां जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा निशायां ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती
सा देवी देवदेवी त्रिभुवनजननी कालिका पातु युष्मान् ॥ १ ॥

बध्वा खट्वाङ्गखेटौ कपिलवरजटामण्डलं पद्मयोनेः
कृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरश्शेखरं तार्क्ष्यपक्षैः ।
पूर्णं रक्तैः सुराणां यममहिषमहाशृङ्गमादाय पाणौ
पायाद्वो वन्द्यमान प्रलय मुदितया भैरवः कालरात्र्याम् ॥ २ ॥

चर्वन्तीमस्तिखण्डं प्रकटकटकटा शब्दसङ्घात मुग्रं
कुर्वाणा प्रेतमध्ये कहह कहकहा हास्यमुग्रं कृशाङ्गी ।
नित्यं नित्यप्रसक्ता डमरुडमडिमान् स्फारयन्ती मुखाब्जं
पायान्नश्चण्डिकेयं झझमझमझमा जल्पमाना भ्रमन्ती ॥ ३ ॥

टण्टण्टण्टण्टटण्टाप्रकर टमटमानादघण्टा वहन्ती
स्फेंस्फेंस्फेंस्फार काराटकटकितहसा नादसङ्घट्टभीमा ।
लोला मुण्डाग्रमाला लल हलहलहा लोललोलाग्र वाचं
चर्वन्ती चण्डमुण्डं मटमटमटिते चर्वयन्तीपुनातु ॥ ४ ॥

वामेकर्णे मृगाङ्कप्रलयपरिगतं दक्षिणे सूर्यबिम्बं
कण्ठेनक्षत्रहारं वरविकटजटाजूटकेमुण्डमालां ।
स्कन्धे कृत्वोरगेन्द्र ध्वजनिकरयुतं ब्रह्मकङ्कालभारं
संहारे धारयन्ती मम हरतु भयं भद्रदा भद्रकाली ॥ ५ ॥

तैलाभ्यक्तैकवेणीत्रपुमयविलसत्कर्णिकाक्रान्तकर्णा
लोहेनै केन कृत्वा चरणनलिनका मात्मनः पादशोभां ।
दिग्वासारासभेन ग्रसति जगदिदं या यवाकर्णपूरा
वर्षिण्यातिप्रबद्धा ध्वजविततभुजा भासि देवि त्वमेव ॥ ६ ॥

सङ्ग्रामे हेतिकृत्यैः सरुधिरदशनैर्यद्भटानां शिरोभिः
मालामाबद्ध्यमूर्ध्नि ध्वजविततभुजा त्वं श्मशाने प्रविष्टा ।
दृष्टा भूतप्रभूतैःपृथुतरजघना बद्धनागेन्द्रकाञ्ची
शूलाग्रव्यग्रहस्ता मधुरुधिरवसा ताम्रनेत्रा निशायाम् ॥ ७ ॥

दम्ष्ट्रारौद्रे मुखेऽस्मिं स्तव विशति जगद्देवि सर्वं क्षणार्धात्
संसारस्यान्तकाले नररुधिरवसासम्प्लवे धूमधूम्रे ।
कालि कापालिकी सा शवशयनरता योगिनी योगमुद्रा
रक्तारूक्षा सभास्था मरणभयहरा त्वं शिवा चण्डघण्टा ॥ ८ ॥

धूमावत्यष्टकं पुण्यं सर्वापद्विनिवारणं ।
यःपठेत्साधको भक्त्या सिद्धिं विन्दति वाञ्छिताम् ॥ ९ ॥

महापदि महाघोरे महारोगे महारणे ।
शत्रूच्चाटे मारणादौ जन्तूनां मोहने तथा ॥ १० ॥

पठेत् स्तोत्रमिदं देवि सर्वतः सिद्धिभाग्भवेत् ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ११ ॥

सिंहव्याघ्रादिकास्सर्वे स्तोत्रस्मरणमात्रतः ।
दूराद्दूरातरं यान्ति किम्पुनर्मानुषादयः ॥ १२ ॥

स्तोत्रेणानेन देवेशि किन्न सिद्ध्यति भूतले ।
सर्वशान्तिर्भवेद्देवि अन्ते निर्वाणतां व्रजेत् ॥ १३ ॥

इति ऊर्ध्वाम्नाये श्री धूमवतीस्तोत्रं सम्पूर्णम् ।

Copy
Give Feedback