Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री दक्षिणकालिका हृदय स्तोत्रम् २

Sri Dakshina Kali Hrudayam 2 in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

अस्य श्री दक्षिणकालिकाम्बा हृदयस्तोत्र महामन्त्रस्य महाकालभैरव ऋषिः उष्णिक् छन्दः ह्रीं बीजं हूं शक्तिः क्रीं कीलकं महाषोढास्वरूपिणी महाकालमहिषी श्री दक्षिणाकालिकाम्बा देवता धर्मार्थकाममोक्षार्थे पाठे विनियोगः ।

करन्यासः –
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्यां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठिकाभ्यां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादि न्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।

ध्यानम् –
क्षुच्छ्यामां कोटराक्षीं प्रलयघनघटां घोररूपां प्रचण्डां
दिग्वस्त्रां पिङ्गकेशीं डमरु सृणिधृतां खड्गपाशाऽभयानि ।
नागं घण्टां कपालं करसरसिरुहैः कालिकां कृष्णवर्णां
ध्यायामि ध्येयमानां सकलसुखकरीं कालिकां तां नमामि ॥

अथ स्तोत्रम् ।
ओं क्रीं क्रीं क्रीं हूं हूं हूं ह्रीं ह्रीं ओं ओं ओं ओं हंसः सोहं ओं हंसः ओं ह्रीं श्रीं ऐं क्रीं हूं ह्रीं स्वाहास्वरूपिणी । अं आं रूपयोग्रेण योगसूत्रग्रन्थिं भेदय भेदय । इं ईं रुद्रग्रन्थिं भेदय भेदय । उं ऊं विष्णुग्रन्थिं भेदय भेदय । ओं अं क्रीं आं क्रीं इं क्रों ईं क्रों उं हूं ऊं हूं ऋं ह्रीं ॠं ह्रीं लुं* द लूं* क्षि एं णे ऐं कालि ओं के औं क्रीं ओं अं क्रीं क्रीं अः हूं हूं ह्रीं ह्रीं स्वाहा । महाभैरवी हूं हूं महाकालरूपिणी ह्रीं ह्रीं प्रसीद प्रसीदरूपिणी ह्रीं ह्रीं ठः ठः क्रीं अनिरुद्धा सरस्वती हूं हूं ब्रह्मविष्णुग्रहबन्धनी रुद्रग्रहबन्धनी गोत्रदेवता ग्रहबन्धनी आधि व्याधि ग्रहबन्धनी सन्निपात ग्रहबन्धनी सर्वदुष्ट ग्रहबन्धनी सर्वदानव ग्रहबन्धनी सर्वदेव ग्रहबन्धनी सर्वगोत्रदेवाता ग्रहबन्धनी सर्वग्रहान् नेडि नेडि विक्पट विक्पट क्रीं कालिके ह्रीं कपालिनि हूं कुल्ले ह्रीं कुरुकुल्ले हूं विरोधिनि ह्रीं विप्रचित्ते स्फ्रें हौं उग्रे उग्रप्रभे ह्रीं उं दीप्ते ह्रीं घने हूं त्विषे ह्रीं नीले च्लूं च्लूं नीलपताके ओं ह्रीं घने घनाशने ह्रीं बलाके ह्रीं ह्रीं ह्रीं मिते आसिते असित कुसुमोपमे हूं हूं हूङ्कारि हां हां हाङ्कारि कां कां काकिनि रां रां राकिनि लां लां लाकिनि हां हां हाकिनि क्षिस् क्षिस् भ्रम भ्रम उत्त उत्त तत्त्वविग्रहे अरूपे अमले विमले अजिते अपराजिते क्रीं स्त्रीं स्त्रीं हूं हूं फ्रें फ्रें दुष्टविद्राविणी आं ब्राह्मी ईं माहेश्वरी ऊं कौमारी ऋं वैष्णवी लूं* वाराही ऐं इन्द्राणी ऐं ह्रीं क्लीं चामुण्डायै औं महालक्ष्यै अः हूं हूं पञ्चप्रेतोपरिसंस्थितायै शवालङ्कारायै चितान्तस्थायै भैं भैं भद्रकालिके दुष्टान् दारय दारय दारिद्र्यं हन हन पापं मथ मथ आरोग्यं कुरु कुरु विरूपाक्षी विरूपाक्ष वरदायिनि अष्टभैरवीरूपे ह्रीं नवनाथात्मिके ओं ह्रीं ह्रीं सत्ये रां रां राकिनि लां लां लाकिनि हां हां हाकिनि कां कां काकिनि क्षिस् क्षिस् वद वद उत्त उत्त तत्त्वविग्रहे अरूपे स्वरूपे आद्यमाये महाकालमहिषि ह्रीं ह्रीं ह्रीं ओं ओं ओं ओं क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं महामाये दक्षिणकालिके ह्रीं ह्रीं हूं हूं क्रीं क्रीं क्रीं मां रक्ष रक्ष मम पुत्रान् रक्ष रक्ष मम स्त्रीं रक्ष रक्ष ममोपरि दुष्टबुद्धि दुष्ट प्रयोगान् कुर्वन्ति कारयन्ति करिष्यन्ति तान् हन हन मम मन्त्रसिद्धिं कुरु कुरु दुष्टान् दारय दारय दारिद्र्यं हन हन पापं मथ मथ आरोग्यं कुरु कुरु आत्मतत्त्वं देहि देहि हंसः सोहं ओं क्रीं क्रीं ओं ओं ओं ओं ओं सप्तकोटि मन्त्रस्वरूपे आद्ये आद्यविद्ये अनिरुद्धा सरस्वति स्वात्मचैतन्यं देहि देहि मम हृदये तिष्ठ तिष्ठ मम मनोरथं कुरु कुरु स्वाहा ।

फलश्रुतिः –
इदं तु हृदयं दिव्यं महापापौघनाशनम् ।
सर्वदुःखोपशमनं सर्वव्याधिविनाशनम् ॥ १ ॥

सर्वशत्रुक्षयकरं सर्वसङ्कटनाशनम् ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमम् ॥ २ ॥

सर्वशत्रुहरन्त्येव हृदयस्य प्रसादतः ।
भौमवारे च सङ्क्रान्तौ अष्टम्यां रविवासरे ॥ ३ ॥

चतुर्दश्यां च षष्ठ्यां च शनिवारे च साधकः ।
हृदयानेन सङ्कीर्त्य किं न साधयते नरः ॥ ४ ॥

अप्रकाश्यमिदं देवि हृदयं देवदुर्लभम् ।
सत्यं सत्यं पुनः सत्यं यदीच्छेच्छुभमात्मनः ॥ ५ ॥

प्रकाशयति देवेशि हृदयं मन्त्रविग्रहम् ।
प्रकाशात् सिद्धहानिः स्यात् शिवस्य निरयं व्रजेत् ॥ ६ ॥

दारिद्र्यं तु चतुर्दश्यां योषितः सङ्गमैः सह ।
वारत्रयं पठेद्देवि प्रभाते साधकोत्तमः ॥ ७ ॥

षण्मासेन महादेवि कुबेर सदृशो भवेत् ।
विद्यार्थी प्रजपेन्मन्त्रं पौर्णिमायां सुधाकरे ॥ ८ ॥

सुधीसंवर्तनां ध्यायेद्देवीमावरणैः सह ।
शतमष्टोतरं मन्त्रं कविर्भवति वत्सरात् ॥ ९ ॥

अर्कवारेऽर्कबिम्बस्थां ध्यायेद्देवी समाहितः ।
सहस्रं प्रजपेन्मन्त्रं देवतादर्शनं कलौ ॥ १० ॥

भवत्येव महेशानि कालीमन्त्र प्रभावतः ।
मकारपञ्चकं देवि तोषयित्वा यथाविधि ॥ ११ ॥

सहस्रं प्रजपेन्मन्त्रं इदं तु हृदयं पठेत् ।
सकृदुच्चारमात्रेण पलायन्ते महाऽऽपदः ॥ १२ ॥

उपपातकदौर्भाग्यशमनं भुक्तिमुक्तिदम् ।
क्षयरोगाग्निकुष्ठघ्नं मृत्युसंहारकारकम् ॥ १३ ॥

सप्तकोटिमहामन्त्रपारायणफलप्रदम् ।
कोट्यश्वमेधफलदं जरामृत्युनिवारकम् ॥ १४ ॥

किं पुनर्बहुनोक्तेन सत्यं सत्यं महेश्वरी ।
मद्यमांसासवैर्देवि मत्स्यमाक्षिकपायसैः ॥ १५ ॥

शिवाबलिं प्रकर्तव्यमिदं तु हृदयं पठेत् ।
इहलोके भवेद्राजा मृतो मोक्षमवाप्नुयात् ॥ १६ ॥

शतावधानो भवति मासमात्रेण साधकः ।
संवत्सर प्रयोगेन साक्षात् शिवमयो भवेत् ॥ १७ ॥

महादारिद्र्यनिर्मुक्तं शापानुग्रहणे क्षमः ।
काशीयात्रा सहस्राणि गङ्गास्नान शतानि च ॥ १८ ॥

ब्रह्महत्यादिभिर्पापैः महापातक कोटयः ।
सद्यः प्रलयतां याति मेरुमन्दिरसन्निभम् ॥ १९ ॥

भक्तियुक्तेन मनसा साधयेत् साधकोत्तमः ।
साधकाय प्रदातव्यं भक्तियुक्ताय चेतसे ॥ २० ॥

अन्यथा दापयेद्यस्तु स नरो शिवहा भवेत् ।
अभक्ते वञ्चके धूर्ते मूढे पण्डितमानिने ॥ २१ ॥

न देयं यस्य कस्यापि शिवस्य वचनं यथा ।
इदं सदाशिवेनोक्तं साक्षात्कारं महेश्वरि ॥ २२ ॥

इति श्रीदेवीयामले श्री कालिका हृदय स्तोत्रम् ।

Copy
Give Feedback