Sri Bhuvaneshwari Ashtottara Shatanama Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥ १ ॥
देव्युवाच ।
भुवनेशी महाविद्या नाम्नामष्टोत्तरं शतम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ २ ॥
ईश्वर उवाच ।
शृणु देवि महाभागे स्तवराजमिदं शुभम् ।
सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥ ३ ॥
शुचिभिः प्रातरुत्थाय पठितव्यः समाहितैः ।
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदः ॥ ४ ॥
अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रमन्त्रस्य शक्तिरृषिः गायत्री छन्दः श्रीभुवनेश्वरी देवता चतुर्विधफल पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ॥
अथ स्तोत्रम् ।
ओं महामाया महाविद्या महायोगा महोत्कटा ।
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥ ५ ॥
वागीश्वरी योगरूपा योगिनीकोटिसेविता ।
जया च विजया चैव कौमारी सर्वमङ्गला ॥ ६ ॥
हिङ्गुला च विलासी च ज्वालिनी ज्वालरूपिणी ।
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥ ७ ॥
वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता ।
वामाङ्गा वामचारा च वामदेवप्रिया तथा ॥ ८ ॥
डाकिनी योगिनीरूपा भूतेशी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥ ९ ॥
भूचरी खेचरी माया मातङ्गी भुवनेश्वरी ।
कान्ता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनी ॥ १० ॥
उमा कुमारी लोकेशी सुकेशी पद्मरागिणी ।
इन्द्राणी ब्रह्मचण्डाली चण्डिका वायुवल्लभा ॥ ११ ॥
सर्वधातुमयीमूर्तिर्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ॥ १२ ॥
नर्मदा मोक्षदा चैव धर्मकामार्थदायिनी ।
गायत्री चाऽथ सावित्री त्रिसन्ध्या तीर्थगामिनी ॥ १३ ॥
अष्टमी नवमी चैव दशम्यैकादशी तथा ।
पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥ १४ ॥
सुरारिनाशकारी च उग्ररूपा च वत्सला ।
अनला अर्धमात्रा च अरुणा पीतलोचना ॥ १५ ॥
लज्जा सरस्वती विद्या भवानी पापनाशिनी ।
नागपाशधरा मूर्तिरगाधा धृतकुण्डला ॥ १६ ॥
क्षत्ररूपा क्षयकरी तेजस्विनी शुचिस्मिता ।
अव्यक्ताव्यक्तलोका च शम्भुरूपा मनस्विनी ॥ १७ ॥
मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा ।
दैत्यघ्नी चैव वाराही सर्वशास्त्रमयी शुभा ॥ १८ ॥
य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥ १९ ॥
मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ।
वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥ २० ॥
वैश्यस्तु धनवान् भूयाच्छूद्रस्तु सुखमेधते ।
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ॥ २१ ॥
ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः ।
एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥ २२ ॥
ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः ।
रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ।
शत्रवः प्रपलायन्ते तस्य वक्त्रविलोकनात् ॥ २३ ॥
इति श्रीरुद्रयामले देवीश्वरसंवादे श्री भुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रम् ।
Leave a Comment