Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री बगलामुखी खड्गमालामन्त्रः

Sri Bagalamukhi Khadga Mala Mantra in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

अस्य श्रीपीताम्बरा बगलामुखी खड्गमाला मन्त्रस्य नारायण ऋषिः, त्रिष्टुप् छन्दः, बगलामुखी देवता, ह्लीं बीजं, स्वाहा शक्तिः, ओं कीलकं, ममाभीष्टसिद्ध्यर्थे सर्वशत्रुक्षयार्थे जपे विनियोगः ।

हृदयादिन्यासः –
नारायण ऋषये नमः शिरसि ।
त्रिष्टुप् छन्दसे नमः मुखे ।
बगलामुखी देवतायै नमः हृदये ।
ह्लीं बीजाय नमः गुह्ये ।
स्वाहा शक्तये नमः पादयो ।
ओं कीलकाय नमः नाभौ ।
ममाभीष्टसिद्ध्यर्थे सर्वशत्रुक्षयार्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
बगलामुखी तर्जनीभ्यां नमः ।
सर्वदुष्टानां मध्यमाभ्यां नमः ।
वाचं मुखं पदं स्तम्भय अनामिकाभ्यां नमः ।
जिह्वां कीलय कनिष्ठिकाभ्यां नमः ।
बुद्धिं विनाशय ह्लीं ओं स्वाहा करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्लीं हृदयाय नमः ।
बगलामुखी शिरसे स्वाहा ।
सर्वदुष्टानां शिखायै वषट् ।
वाचं मुखं पदं स्तम्भय कवचाय हुम् ।
जिह्वां कीलय नेत्रत्रयाय वौषट् ।
बुद्धिं विनाशय ह्लीं ओं स्वाहा नमः अस्त्राय फट् ।

ध्यानम् –
मध्ये सुधाब्धि मणिमण्डितरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवस्त्राम् ।
भ्राम्यद्गदां करनिपीडितवैरिजिह्वां
पीताम्बरां कनकमाल्यवतीं नमामि ॥

मानसपूजा –
ओं लं पृथ्वीतत्त्वात्मकं गन्धं श्रीबगलामुखी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठाङ्गुष्ठ-मुद्रा) ।
ओं हं आकाशतत्त्वात्मकं पुष्पं श्रीबगलामुखी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अङ्गुष्ठ-मुद्रा) ।
ओं यं वायुतत्त्वात्मकं धूपं श्रीबगलामुखी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अङ्गुष्ठ-मुद्रा) ।
ओं रं वह्न्यात्मकं दीपं श्रीबगलामुखी-श्रीपादुकाभ्यां नमः अनुकल्पयामि। (ऊर्ध्व-मुख-मध्यमा-अङ्गुष्ठ-मुद्रा) ।
ओं वं जलतत्त्वात्मकं नैवेद्यं श्रीबगलामुखी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अङ्गुष्ठ-मुद्रा) ।
ओं शं सर्वतत्त्वात्मकं ताम्बूलं श्रीबगलामुखी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वाङ्गुलि-मुद्रा) ।

खड्गमालामन्त्रः –

ओं ह्लीं सर्वनिन्दकानां सर्वदुष्टानां वाचं मुखं स्तम्भय स्तम्भय बुद्धिं विनाशय विनाशय अपरबुद्धिं कुरु कुरु अपस्मारं कुरु कुरु आत्मविरोधिनां शिरो ललाट मुख नेत्र कर्ण नासिका दन्तोष्ठ जिह्वा तालु कण्ठ बाहूदर कुक्षि नाभि पार्श्वद्वय गुह्य गुदाण्ड त्रिक जानु पाद सर्वाङ्गेषु पादादिकेशपर्यन्तं केशादिपादपर्यन्तं स्तम्भय स्तम्भय मारय मारय परमन्त्र परयन्त्र परतन्त्राणि छेदय छेदय आत्म मन्त्र यन्त्र तन्त्राणि रक्ष रक्ष सर्वग्रहान् निवारय निवारय सर्वं अविधिं विनाशय विनाशय दुःखं हन हन दारिद्र्यं निवारय निवारय सर्वमन्त्रस्वरूपिणि सर्वशल्ययोगस्वरूपिणि दुष्टग्रह चण्डग्रह भूतग्रहाऽऽकाशग्रह चौरग्रह पाषाणग्रह चाण्डालग्रह यक्षगन्धर्वकिन्नरग्रह ब्रह्मराक्षसग्रह भूतप्रेतपिशाचादीनां शाकिनीडाकिनीग्रहाणां पूर्वदिशं बन्धय बन्धय वाराहि बगलामुखी मां रक्ष रक्ष दक्षिणदिशं बन्धय बन्धय किरातवाराहि मां रक्ष रक्ष पश्चिमदिशं बन्धय बन्धय स्वप्नवाराहि मां रक्ष रक्ष उत्तरदिशं बन्धय बन्धय धूम्रवाराहि मां रक्ष रक्ष सर्वदिशो बन्धय बन्धय कुक्कुटवाराहि मां रक्ष रक्ष अधरदिशं बन्धय बन्धय परमेश्वरि मां रक्ष रक्ष सर्वरोगान् विनाशय विनाशय सर्वशत्रु पलायनाय सर्वशत्रुकुलं मूलतो नाशय नाशय शत्रूणां राज्यवश्यं स्त्रीवश्यं जनवश्यं दह दह पच पच सकललोकस्तम्भिनि शत्रून् स्तम्भय स्तम्भय स्तम्भनमोहनाऽऽकर्षणाय सर्वरिपूणां उच्चाटनं कुरु कुरु ओं ह्लीं क्लीं ऐं वाक् प्रदानाय क्लीं जगत्त्रयवशीकरणाय सौः सर्वमनः क्षोभणाय श्रीं महासम्पत् प्रदानाय ग्लौं सकलभूमण्डलाधिपत्यप्रदानाय दां चिरञ्जीवने ह्रां ह्रीं ह्रूं क्लां क्लीं क्लूं सौः ओं ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय राजस्तम्भिनि क्रों क्रों छ्रीं छ्रीं सर्वजनसम्मोहिनि सभास्तम्भिनि स्त्रां स्त्रीं सर्वमुखरञ्जिनि मुखं बन्धय बन्धय ज्वल ज्वल हंस हंस राजहंस प्रतिलोम इहलोक परलोक परद्वार राजद्वार क्लीं क्लूं घ्रीं रूं क्रों क्लीं खाणि खाणि जिह्वां बन्धयामि सकलजनसर्वेन्द्रियाणि बन्धयामि नागाश्व मृग सर्प विहङ्गम वृश्चिकादि विषं निर्विषं कुरु कुरु शैलकानन महीं मर्दय मर्दय शत्रून् उत्पाटयोत्पाटय पात्रं पूरय पूरय महोग्रभूतजातं बन्धयामि बन्धयामि अतीतानागतं सत्यं कथय कथय लक्ष्मीं प्रददामि प्रददामि त्वं इह आगच्छ आगच्छ अत्रैव निवासं कुरु कुरु ओं ह्लीं बगले परमेश्वरि हुं फट् स्वाहा ।

मूलमन्त्रवता कुर्याद्विद्यां न दर्शयेत् क्वचित् ।
विपत्तौ स्वप्नकाले च विद्यां स्तम्भिनीं दर्शयेत् ॥

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
प्रकाशनात् सिद्धिहानिः स्याद् वश्यं मरणं भवेत् ॥

दद्यात् शान्ताय सत्याय कौलाचारपरायणः ।
दुर्गाभक्ताय शैवाय मृत्युञ्जयरताय च ॥

तस्मै दद्यादिमं खड्गं स शिवो नात्र संशयः ।
अशाक्ताय च नो दद्याद्दीक्षाहीनाय वै तथा ।
न दर्शयेदिमं खड्गमित्याज्ञा शङ्करस्य च ॥

इति श्रीविष्णुयामले श्री बगलामुखी खड्गमालामन्त्रः ॥

Copy
Give Feedback