Ashtavakra Gita Chapter 5 in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
ashtavakra gita chapter 5 in devanagari
अष्टावक्र उवाच ॥
न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि ।
सङ्घातविलयं कुर्वन्नेवमेव लयं व्रज ॥ 5-1॥
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः ।
इति ज्ञात्वैकमात्मानमेवमेव लयं व्रज ॥ 5-2॥
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि ।
रज्जुसर्प इव व्यक्तमेवमेव लयं व्रज ॥ 5-3॥
समदुःखसुखः पूर्ण आशानैराश्ययोः समः ।
समजीवितमृत्युः सन्नेवमेव लयं व्रज ॥ 5-4॥
ashtavakra gita chapter 5 in devanagari
Leave a Comment